| Specifications |
| Publisher: CHAUKHAMBHA ORIENTALIA, Delhi | |
| Author Sundar Narayan Jha | |
| Language: Sanskrit Only | |
| Pages: 308 | |
| Cover: PAPERBACK | |
| 8.5x5.5 inch | |
| Weight 420 gm | |
| Edition: 2024 | |
| ISBN: 9789389329414 | |
| HAH631 |
| Delivery and Return Policies |
| Usually ships in 1 days | |
| Returns and Exchanges accepted within 7 days | |
| Free Delivery |
विदन्त्येव विपश्चिदपश्चिमा मनीषिणो यद्वेदेषु वैदिकसाहित्येषु च वैज्ञानिकसिद्धान्तानां पर्याप्ताः सामग्ग्रः समुपलभ्यन्ते। वेदानां विषये भगवतो मनोरिदं वचनन्त्वत्यन्तमुपादेयमस्ति यत्- सर्वज्ञानमयो हि सः (मनु-2/7) इति। तत्र विशेषरूपेणेदद्मवधेयमस्ति यज्जगति समस्तविद्यानां द्विविधमेव स्वरूपम् - ज्ञानं विज्ञानञ्च। तत्र ज्ञानं मुक्तिजनकत्वादपवर्गसिद्धिसाधनत्वाच्च ब्रह्मविद्येत्यपरनाम्ना ज्ञायते । विज्ञानञ्च चतुर्विधपुरुषार्थेषु वर्गफलप्राप्ति- निमित्तत्वादैहिक सुखसाधनोपायभूतत्वाच्च यज्ञविद्येत्यपरनाम्ना विख्यातमस्ति। तदन्विह मन्त्र-ब्राह्मणारण्यकोपनिषदां निरन्तरं स्वाध्ययनं कृत्वा तत्र- तत्रोक्तानां विषयाणामवगाहनाय जिज्ञासा भवति सर्वेषामपि जनानां मनसि। विशेषरूपेण ये शोधच्छात्राः सन्ति ये च जिज्ञासवस्ते बहुविधान् वैदिकविषयानेकत्र द्रष्टुमभिलषन्ति। यदि वहुविधा विषया एकत्रैव दृष्टि- पथमायान्ति चेदध्ययने सौकर्यमनुभवन्ति सामान्यतस्ते। एतत्सर्वमपि विषयं मनसि निधाय काले काले मल्लिखितानां वैदिकविज्ञानसम्बद्धानां केषाञ्चित्रिबन्धानामत्र सङ्कलनं कृत्वा प्रकाशमानेतुं साम्प्रतमहं समुत्सहे।
अथायं वेदविज्ञानवैभवम् इति नामको ग्रन्थो भवतां श्रीमतां पुरतोऽधुना मया प्रस्तूयते। ग्रन्थेऽस्मिन् नानाविधानां वेदप्रतिपादितवैज्ञानिक- विषयसम्बद्धानां सर्वजनोपयोगिनां पञ्चविंशतिर्निबन्धानां सङ्कलनमस्ति। विदन्त्येव विद्वांसो यद्मद्ब्रह्माण्डस्य विविधतत्त्वान्याश्रित्य वैज्ञानिक विवेचनं वेदेषु वैदिकसाहित्येषु च प्रस्तुतमस्ति यथा भौतिकविज्ञानम्, रसायन- विज्ञानम्, जीवविज्ञानम्, कृषिविज्ञानम्, अग्निविज्ञानम्, ध्वनिविज्ञानम्, आयुर्विज्ञानम्, जलविज्ञानम्, वृष्टिविज्ञानम्, भूगर्भविज्ञानम्, खगोलविज्ञानम्, भूगोलविज्ञानादीनां चिन्तनं कृतं वर्तते। तथा चोक्तं भगवता श्रीकृष्णेन- ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः।' अस्य कथनस्य व्याख्यानं कुर्वता श्रीमच्छङ्कराचार्यपादैः- विज्ञानसहितं स्वानुभवसंयुक्तम् इति शब्दार्थ प्रदर्शितम्। अमरकोषे तु अस्यातिनिपुणतया प्रतिपादनमस्ति। यथा- मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः ।
Send as free online greeting card